श्लोक · Shlok 19
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ. madbhakta etadvijñāya madbhāvāyopapadyate.
Translation · अर्थ
English
Thus the field, as well as knowledge and the knowable have been briefly stated. My devotee, knowing this, enters into My Being.
Sūtradhāra Vichār
Classical commentaries
Explore different interpretations
A.C. Bhaktivedanta Swami PrabhupadaEnglish Commentary+
The Lord has described in summary the body, knowledge and the knowable. This knowledge is of three things: the knower, the knowable and the process of knowing. Combined, these are called vijñāna, or the science of knowledge. Perfect knowledge can be understood by the unalloyed devotees of the Lord directly. Others are unable to understand. The monists say that at the ultimate stage these three items become one, but the devotees do not accept this. Knowledge and development of knowledge mean understanding oneself in Kṛṣṇa consciousness. We are being led by material consciousness, but as soon as we transfer all consciousness to Kṛṣṇa’s activities and realize that Kṛṣṇa is everything, then we attain real knowledge. In other words, knowledge is nothing but the preliminary stage of understanding devotional service perfectly. In the Fifteenth Chapter this will be very clearly explained. Now, to summarize, one may understand that verses 6 and 7, beginning from mahā-bhūtāni and continuing through cetanā dhṛtiḥ, analyze the material elements and certain manifestations of the symptoms of life. These combine to form the body, or the field of activities. And verses 8 through 12, from amānitvam through tattva-jñānārtha-darśanam, describe the process of knowledge for understanding both types of knower of the field of activities, namely the soul and the Supersoul. Then verses 13 through 18, beginning from anādi mat-param and continuing through hṛdi sarvasya viṣṭhitam, describe the soul and the Supreme Lord, or the Supersoul. Thus three items have been described: the field of activity (the body), the process of understanding, and both the soul and the Supersoul. It is especially described here that only the unalloyed devotees of the Lord can understand these three items clearly. So for these devotees Bhagavad-gītā is fully useful; it is they who can attain the supreme goal, the nature of the Supreme Lord, Kṛṣṇa. In other words, only devotees, and not others, can understand Bhagavad-gītā and derive the desired result.
Swami SivanandaEnglish Commentary+
इति thus? क्षेत्रम् the field? तथा as well as? ज्ञानम् knowledge? ज्ञेयम् the knowable? च and? उक्तम् have been stated? समासतः briefly? मद्भक्तः My devotee? एतत् this? विज्ञाय knowing? मद्भावाय to My being? उपपद्यते enters.Commentary He whohas controlled his mind and organs? who has the knowledge of the field and the knowable? and who fixes his mind on Me becomes one with Me.Thus the field described above (beginning with the great elements and ending with firmness? verses 5 and 6)? knowledge described above (beginning with humility and ending with perception of the end of true knowledge in verses 7 to 11) and the knowable described in verses 12 to 17 -- these have briefly been stated.He who has singleminded devotion unto Me? who takes Me (Vaasudeva? the Supreme Lord? the omniscient? and the supreme Guru) as the Self of everything? he who thinks and feels that all that he sees? hears and touches is nothing but the Lord and he who has the right knowledge described above enters into My Being or attains release from birth and death.
Swami ChinmayanandaHindi Commentary+
अब तक? गीतोपदेश में जो कुछ विवेचन किया गया है? वह वस्तुत वैदिक सिद्धांत का ही प्रतिपादन है। महाभूतों से प्रारम्भ होकर धृति पर्यन्त क्षेत्र है। अमानित्वादि से तत्त्वज्ञानार्थ दर्शन तक ज्ञान का वर्णन है। और तत्पश्चात् के श्लोकों में ज्ञेय वस्तु का निर्देश किया गया है।अब? प्रश्न यह है कि इस ज्ञान का उत्तम अधिकारी कौन है भगवान् कहते हैं? जो मेरा भक्त है? वह मेरे स्वरूप को प्राप्त होता है। परन्तु यह भक्ति केवल भावुकतापूर्ण प्रेम ही नहीं है। जिसने क्षेत्र और क्षेत्रज्ञ के विवेक द्वारा यह स्वानुभव प्राप्त किया है कि एक वासुदेव ही भूतमात्र में क्षेत्रज्ञ के रूप में विराजमान हैं? वही साधक उत्तम भक्त है जो मेरे स्वरूप को प्राप्त होता है।क्षेत्र और क्षेत्रज्ञ का ही वर्णन? अगले श्लोक में? प्रकृति और पुरुष के रूप में किया जा रहा है
Swami RamsukhdasHindi Commentary+
व्याख्या -- इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः -- इसी अध्यायके पाँचवें और छठे श्लोकमें जिसका वर्णन किया गया है? वह क्षेत्र है सातवेंसे ग्यारहवें श्लोकतक जिस साधनसमुदायका,वर्णन किया गया है? वह ज्ञान है और बारहवेंसे सत्रहवें श्लोकतक जिसका वर्णन किया गया है? वह ज्ञेय है। इस तरह मैंने क्षेत्र? ज्ञान और ज्ञेयका संक्षेपसे वर्णन किया है।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते -- मेरा भक्त क्षेत्रको? साधनसमुदायरूप ज्ञानको और ज्ञेय तत्त्व(परमात्मा)को तत्त्वसे जानकर मेरे भावको प्राप्त हो जाता है।क्षेत्रको ठीक तरहसे जान लेनेपर क्षेत्रसे सम्बन्धविच्छेद हो जाता है। ज्ञानको अर्थात् साधनसमुदायको ठीक तरहसे जाननेसे? अपनानेसे देहाभिमान (व्यक्तित्व) मिट जाता है। ज्ञेय तत्त्वको ठीक तरहसे जान लेनेपर उसकी प्राप्ति हो जाती है अर्थात् परमात्मतत्त्वके साथ अभिन्नताका अनुभव हो जाता है। सम्बन्ध -- इसी अध्यायके पहले और दूसरे श्लोकमें जिस क्षेत्र और क्षेत्रज्ञका संक्षेपसे वर्णन किया था? उसीका विस्तारसे वर्णन करनेके लिये आगेका प्रकरण आरम्भ करते हैं।
Sri Abhinav GuptaSanskrit Commentary+
एतदिति। एतत् क्षेत्रज्ञानज्ञेयात्मकं (?N क्षेत्रं) त्रयं यो वेत्ति? स एवम मद्भक्तः। स च मद्भावमेति।
Sri AnandgiriSanskrit Commentary+
प्रकृतिमित्यादि वक्ष्यमाणमनन्तरपूर्वग्रन्थसंबन्धीत्याशङ्क्य व्यवहितेन संबन्धार्थं व्यवहितमनुवदति -- तत्रेति। तयोश्च प्रकृत्योरुक्तं भूतकारणत्वमित्याह -- एतदिति। भूतानामिव प्रकृत्योरपि प्रकृत्यन्तरापेक्षयानवस्थानान्न भूतयोनितेति शङ्कते -- क्षेत्रेति। तत्राकृताभ्यागमादिवारणाय बन्धस्य निदानज्ञानार्थमात्मनो विक्रियावत्त्वादिदोषनिरासार्थं च प्रकृतिपुरुषयोरनादित्वं क्षेत्रत्वेनोक्तानां प्रकृतिंप्रति विकारभावं च दर्शयति -- अयमर्थ इति। स च यो यत्स्वभावश्चेत्युद्दिष्टं व्याचष्टे -- प्रकृतिमिति। ईश्वस्यापरा प्रकृतिरत्र प्रकृतिशब्देनोक्ता परा तु प्रकृतिर्जीवाख्या पुरुषशब्देन विवक्षितेति व्याकरोति -- ईश्वरस्येति। तयोरनादित्वं व्युत्पादयति -- नेत्यादिना। तत्र युक्तिमाह -- नित्यत्वादीश्वरस्येति। ईश्वरस्योक्तप्रकृतिद्वयवत्त्वं कथमित्याशङ्क्याह -- प्रकृतीति। तस्य जगज्जन्मादौ स्वातन्त्र्यमेवेश्वरत्वं न प्रकृतिद्वयवत्वमित्याशङ्क्याह -- याभ्यामिति। प्रकृत्योरनादित्वं कुत्रोपयुक्तमित्याशङ्क्याह -- ते इति। मतान्तरमाह -- नेत्यादिना। तयोर्मूलकारणत्वाभावे कस्य तदेष्टव्यमित्याशङ्क्याह -- तेन हीति। प्रकृत्योरेव मूलकारणत्वे श्रुतिस्मृतिसिद्धमीश्वरस्य तथात्वं न स्यादित्याह -- यदीति। प्रकृतिद्वयस्य कार्यत्वपक्षं प्रत्याह -- तदसदिति। किञ्च प्रकृतिद्वयमनपेक्ष्येश्वरस्य संसारहेतुत्वे स्वातन्त्र्यान्मुक्तानामपि ततःसंसाराप्तेरनिषेधान्मोक्षशास्त्राप्रामाण्यान्न तस्यैव संसारहेतुतेत्याह -- संसारस्येति। निर्निमित्तत्वं प्रकृतिद्वयापेक्षामृते परस्यैव निमित्तत्वमिति यावत्। किञ्च कार्यत्वे प्रकृत्योस्तदुदयात्पूर्वं बन्धाभावे तद्विश्लेषात्मनो मोक्षस्याभावात्कदाचिदुभयाभावे पुनस्तदप्रसङ्गान्न प्रकृतिद्वयस्य कार्यतेत्याह -- बन्धेति। प्रकृत्योर्मूलकारणत्वे नानुपपत्तिरित्याह -- नित्यत्व इति। स्वपक्षे दोषाभावं प्रश्नपूर्वकं प्रपञ्चयति -- कथमित्यादिना। संभवः सत्ताप्रापको हेतुः प्रकृतेरनादित्वे विकाराणां गुणानां च तत्कार्यत्वादात्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यतीति भावः।
Sri DhanpatiSanskrit Commentary+
प्रतिज्ञातार्थमुपपाद्योपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं? तथा ज्ञानममानित्वादि तत्त्वज्ञानार्तदर्शनावसानं? ज्ञेयं च ज्ञेयं यत्तदित्यादि तमसः परमुच्यत इत्येवमन्तमुक्तं। हृदि सर्वस्य विष्ठितमित्यन्तमित्याधुनिकानामुक्तस्तु नादर्तव्या। ज्ञानादेर्ज्ञेयप्रवचनपरत्वेऽस्वरसस्योक्तत्वात्। वसिष्ठादिभिर्यद्विस्तरेण गीतं तत्समासतः संक्षेपतो मया प्रतिपादितं एतावानेव सर्ववेदार्थो गीतार्थश्चातः संक्षिप्य भगवतोपसंहृत्योक्तः। यथोक्तसम्यग्दर्शने कोऽधिकारित्यत आह। मयि सर्वेश्वरे सर्वज्ञे परमगुरौ भगवति वासुदेवे यच्छ्रणोति स्पृशति पश्यति आस्वादयति जिघ्रति वा सर्वेमेव श्रीभगवान्वासुदेव इत्येवं ग्रहाविष्टबुद्धितया समर्पितसर्वात्मभावो मद्भक्तः एतादृशः सन्नेतद्यथोक्तं क्षेत्रज्ञानज्ञयानां याथात्म्यं विज्ञाय मद्भवाय परमात्मभावाय मोक्षायोपपद्यते योग्यो भवतीत्यर्थः।
Sri JayatrithaSanskrit Commentary+
ननु ब्रह्मणि प्रतिपादिते केन साधनेनेदं बुद्ध्यारूढं भवेत् इत्याकाङ्क्षायां साधनं पश्चाद्वक्तव्यं तत्कुतः प्रथमत उक्तं इत्यत आह -- विकारेति। विकारेष्वन्तर्भावं ज्ञापयितुं तदनन्तरमुपोद्धातप्रक्रिययोक्तमिति भावः। उद्देशक्रमानुसारेणयतश्च यत् [13।4] इति प्रथममनुक्त्वास च यो यत्प्रभावश्च [13।4] इत्येतत्कुत उक्तमित्यत आह -- बहुत्वादिति। सूचीकटाहनिर्माणादौ बहुत्वस्य प्राथम्यव्यभिचाराद्धेत्वन्तरोक्तिः। अलौकिकस्य प्रभावस्य बुद्धयारोहे हि साधनानामत्युपयोगः? न तु तावान् लौकिकस्य प्रेरकत्वस्यानुभवारोह इति ज्ञापयितुं ज्ञानसाधनानन्तरमेव प्रभाव उक्तः। तत्प्रसङ्गेन चेति भावः।
Sri MadhavacharyaSanskrit Commentary+
विकारार्न्तभावाज्ज्ञानसाधनं प्रथमत उक्तम्। बहुत्वात्साधनात्युपयोगात् प्रभावः।
Sri Madhusudan SaraswatiSanskrit Commentary+
उक्तं क्षेत्रादिकमधिकारिणं फलं च वदन्नुपसंहरति -- इति क्षेत्रमिति। इति अनेन पूर्वोक्तेन प्रकारेण क्षेत्रं महाभूतादिधृत्यन्तं? तथा ज्ञानं अमानित्वादितत्त्वज्ञानार्थदर्शनान्तं? ज्ञेयं च अनादिमत्परं ब्रह्म धिष्ठितमित्यन्तं? श्रुतिभ्यः स्मृतिभ्यश्चाकृष्य त्रयमपि मन्दबुद्ध्यनुग्रहाय मया संक्षेपेणोक्तम्। एतावानेव हि सर्वो वेदार्थो गीतार्थश्च। अस्मिंश्च पूर्वाध्यायोक्तलक्षणो मद्भक्त एवाधिकारीत्याह -- मद्भक्त इति। मद्भक्तः मयि भगवति वासुदेवे परमगुरौ समर्पितसर्वात्मभावो मदेकशरणः स एतद्यथोक्तं क्षेत्रं ज्ञानं ज्ञेयं च विज्ञाय विवेकेन विदित्वा मद्भावाय सर्वानर्थशून्यपरमानन्दभावाय मोक्षायोपपद्यते मोक्षं प्राप्तुं योग्यो भवति।यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति श्रुतेः। तस्मात्सर्वदा मदेकशरणः सन्नात्मज्ञानसाधनान्येव परमपुरुषार्थलिप्सुरनुवर्तेत तुच्छविषयभोगस्पृहां हित्वेत्यभिप्रायः।
Sri NeelkanthSanskrit Commentary+
उक्तमर्थजातमुपसंहरति -- इतीति। क्षेत्रं महाभूतादिधृत्यन्तम्। ज्ञानं ज्ञानसाधनममानित्वादि तत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयमनादिमत्परमित्यादि धिष्ठितमित्यन्तम्। श्रुतिभ्यः स्मृतिभ्यश्च समासतः संक्षेपत उक्तम्। मद्भक्त एतत्त्रयं विज्ञाय मद्भावाय ब्रह्मभावायोपपद्यते युक्तो भवति। भक्त्यैव प्राप्यं ब्रह्म यत्प्राप्य ब्रह्मैव भवति। तथा च श्रुतिःयस्य देवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः इति।ब्रह्म वेद ब्रह्मैव भवति इति च।
Sri PurushottamjiSanskrit Commentary+
उपसंहरति -- इतीति। इति अमुना प्रकारेणमहाभूतानि [13।6] इत्यादिना क्षेत्रंअमानित्वं [13।8] इत्यादिना ज्ञानंअनादिमत्परं ब्रह्म [13।13] इत्यादिना ज्ञेयं? चकारेण सर्वमक्षरात्मकं समासतः सङ्क्षेपेण सौकर्यबोधार्थमुक्तम्। यदर्थमुक्तं तदाह -- मद्भक्त इति। एतदुक्तरूपं विज्ञाय विशेषेण मद्विभूत्यक्षरात्मकं ज्ञात्वा मद्भक्तो मद्भजनशीलः सन् मद्भावाय भावात्मकस्वरूपलाभाय उपपद्यते योग्यः समर्थो वा भवतीत्यर्थः।
Sri RamanujaSanskrit Commentary+
प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि। बन्धहेतुभूतान् विकारान् इच्छाद्वेषादीन् अमानित्वादिकान् च गुणान् मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि।पुरुषेण संसृष्टा इयम् अनादिकालप्रवृत्ता क्षेत्राकारपरिणता प्रकृतिः स्वविकारैः इच्छाद्वेषादिभिः पुरुषस्य बन्धहेतुः भवति। सा एव अमानित्वादिभिः स्वविकारैः पुरुषस्यापवर्ग हेतुः भवति इत्यर्थः।संसृष्टयोः प्रकृतिपुरुषयोः कार्यभेदम् आह --
Sri ShankaracharyaSanskrit Commentary+
-- इति एवं क्षेत्रं महाभूतादि धृत्यन्तं तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं ज्ञेयं च ज्ञेयं यत् तत् इत्यादि तमसः परमुच्यते (गीता 13।17) इत्येवमन्तम् उक्तं समासतः संक्षेपतः। एतावान् सर्वः हि वेदार्थः गीतार्थश्च उपसंहृत्य उक्तः। अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते -- मद्भक्तः मयि ईश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा सर्वमेव भगवान् वासुदेवः इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः। स एतत् यथोक्तं सम्यग्दर्शनं विज्ञाय? मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै मद्भावाय उपपद्यते मोक्षं गच्छति।।तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते? परापरे क्षेत्रक्षेत्रज्ञलक्षणे एतद्योनीनि भूतानि इति च उक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति अयमर्थः अधुना उच्यते --,
Sri Sridhara SwamiSanskrit Commentary+
उक्तं क्षेत्रादिकमधिकारिफलसहितमुपसंहरति -- इतीति। इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं तथा ज्ञानं च अमानित्वादितत्त्वज्ञानार्थदर्शनान्तम्। ज्ञेयं चअनादिमत्पर ब्रह्म इत्यादिविष्ठितम् इत्यन्तम्। वसिष्ठादिभिर्विस्तरेणोक्तं सर्वमपि मया संक्षेपेणोक्तम्। एतच्च पूर्वाध्यायोक्तलक्षणो मद्भक्तो विज्ञाय मद्भावाय ब्रह्मत्वायोपपद्यते योग्यो भवति।
Sri VallabhacharyaSanskrit Commentary+
प्रकृतिः पुरुषश्चोभौ परमात्माऽभवत्पुरा। यद्रूपं समधिष्ठाय तदक्षरमुदीरितम् इतीति।महाभूतान्यहङ्कारः इत्यादिनासङ्घातश्चेतना धृतिः [13।67] इत्यन्तेन क्षेत्रतत्वं समासेनोक्तं?अमानित्वं [13।812] इत्यादिनातत्वज्ञानार्थदर्शनम् इत्यन्तेन ज्ञानं?ज्ञेयम् [13।18] इत्यादिना ज्ञेयं तत्तदप्यात्मतत्त्वस्य ज्ञानसाधनमुक्तं?अनादिमत्परं [13।13] इत्यादिना चहृदि सर्वस्य धिष्ठितं [13।18] इत्यन्तेन ज्ञेयस्य च ब्रह्मणोऽक्षरात्मत्वं सङ्क्षेपेणोक्तम्। इदं सर्वं मद्भक्तिमानेव विज्ञाय मद्भावाय मद्गुणवत्वायोपपन्नो भवतीत्यर्थः।
Vedantadeshikacharya VenkatanathaSanskrit Commentary+
उपसंहरन्नुक्तयाथात्म्यज्ञानस्य फलं चाह -- इति इति श्लोकेन। प्रकृतपरामर्शिन एतच्छब्दस्य विशेषकाभावात्प्रकृतार्थत्रयविषयत्वमाहक्षेत्रयाथात्म्यमित्यादिना।मद्भावाय इत्यत्र साम्यश्रुत्यादिविरुद्धतादात्म्यभ्रमव्युदासायाहमम यो भावः स्वभाव इति। नित्यसिद्धज्ञानत्वादिस्वभावव्यवच्छेदायाहअसंसारित्वमिति।उपपद्यते इत्यस्य ज्ञानजन्ययोग्यतायां तात्पर्यमुपपन्नशब्देन दर्शितम्।